Monday, May 26, 2014

।।वीणा।।

।।वीणा।।

उन्मादं जनयसि नर्तयत्यजस्रं 
शीर्षं स्त्रीपुरुषभिदां विना सहेलम्
निर्लज्जं पुरुषसभां प्रयास्यशङ्कं 
श्रीवीणे तव चरितं विचित्रमेतत्।।

अहो किमिदमद्भुतं रसिकलोकवर्षोऽधुना
विधूर्णयति मस्तकं नदति किञ्चिदन्तर्मुदा
समस्तकरणान्यपि श्रवणतामुपेतान्यहो
निमज्जति मनो मुहुः मधुरगानवारांनिधौ।

हाहा गानसमुद्रोऽयमदुभुतः केन निर्मितः।
यस्यात्यगाधमाधुर्यं श्रवणेनैव रस्यते।।
वदति मुहुः नदति मुहुः प्रोक्तं वक्ति स्वयं पुनश्चापि।
घनपाठिनीव वीणा वेदायोग्यापि पठति पाठयति।।

वेणुः कुत्र गतः विधेः करतले किं तेन वा स्याद्विधेः।
वृद्धो गन्तुमपि स्वयं न सहते तेनाश्रयार्थं धृतः।
वीणा केयमितस्तदीयदुहितुः कृष्टा मया हि क्रुधे-
त्येवं गोपवधूजनेषु च लपन् पायात्सदा केशवः।

क्वचिद्विबुधसन्ततिं क्वचन किन्नरौघं मुदा
क्वचिच्चतुरचारणान् क्वचन नागलोकं महत्।
चराचरजगन्मुहुर्नरसैर्भृतं कुर्वती
जयत्यमितवल्लकीसरसवाक्सुधावाहिनी।।

यदेतत्कामिन्याः सुरतविरतौ पल्लवरुचा
करेणानीतस्त्वं वससि सह हारेण गुणिना।
मुहुः कुर्वन् गीतं कुचकलशपीठोपरि लुट-
न्नये वीणादण्ड प्रकटय फलं कस्य तपसः।।

No comments:

Post a Comment